६.५५.६१

मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ।
अप्रीतश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥

अन्वयः

मया I, मेक्षितस्य if released, महात्मनः great soul, अस्य his, सुग्रीवस्य Sugriva's, कष्टा caused, अप्रीतिश्च not happy, शाश्वतः ever, कीर्तिनाशश्च fame lost, भवेत् will be.

M N Dutt

Should the relief of the mighty-minded Sugrīva come from me, I should be incurring his displeasure and it would certainly lead to the loss of his reputation for ever; then I must wait a moment and see his own mighty displayed by himself when relieved. Meanwhile let me cheer up the monkey-host.

Summary

"If Sugriva is released by me, he will not be happy forever. His fame will be lost."

पदच्छेदः

मयामद् (३.१)
तुतु (अव्ययः)
मोक्षितस्यास्यमोक्षित (√मोक्षय् + क्त, ६.१)–इदम् (६.१)
सुग्रीवस्यसुग्रीव (६.१)
महात्मनःमहात्मन् (६.१)
अप्रीतिश्चअप्रीति (१.१)–च (अव्ययः)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
कष्टाकष्ट (१.१)
कीर्तिनाशश्चकीर्ति–नाश (१.१)–च (अव्ययः)
शाश्वतःशाश्वत (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यातु मोक्षि स्यास्य
सु ग्रीस्य हात्म नः
प्रीश्च वे त्क ष्टा
कीर्ति नाश्च शाश्व तः