६.५५.६२

तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः ।
भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥

अन्वयः

तस्मात् therefore, मुहूर्तम् for a while, पार्थिवस्य exhibition, विक्रमम् of prowess, काङ्क्षिष्ये see, तावत् thereafter, भिन्नम् scattered, वानरानीकम् Vanara army, अहम् I, आश्वासयामि will reinforce.

Summary

"Therefore, I will see the exhibition of his prowess for a while. Thereafter I shall reinforce the scattered army of Vanaras."

पदच्छेदः

तस्मान्मुहूर्तंतस्मात् (अव्ययः)–मुहूर्त (२.१)
काङ्क्षिष्येकाङ्क्षिष्ये (√काङ्क्ष् लृट् उ.पु. )
विक्रमंविक्रम (२.१)
पार्थिवस्यपार्थिव (६.१)
नःमद् (६.३)
भिन्नंभिन्न (√भिद् + क्त, २.१)
(अव्ययः)
वानरानीकंवानर–अनीक (२.१)
तावद्तावत् (अव्ययः)
आश्वासयाम्यहम्आश्वासयामि (√आ-श्वासय् लट् उ.पु. )–मद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्मान्मु हू र्तं का ङ्क्षि ष्ये
विक्र मं पार्थिस्य नः
भि न्नं वा रा नी कं
ता दा श्वा याम्य हम्