६.५५.६६

एवं गृहीतेन कथं नु नाम; शक्यं मया संप्रति कर्तुमद्य ।
तथा करिष्यामि यथा हरीणां; भविष्यतीष्टं च हितं च कार्यम् ॥

अन्वयः

एवम् in that way, गृहीतेन caught, मया my, सम्प्रति taken, कथम् how, कर्तुम् What to do, शक्यम् possible, हरीणाम् to Vanaras, इष्टम् pleasing, हितं च good, कार्यम् task, यथा by which, भविष्यति will do, तथा that way, अद्य now, करिष्यामि will do.

M N Dutt

When thus within the grasp of the enemy how can I take revenge? Or let me do what will be acceptable and advantageous to our army.

Summary

'Caught in this way, how can I do (take action)? I will do what is possible, pleasing, and good to Vanaras now.'

पदच्छेदः

एवंएवम् (अव्ययः)
गृहीतेनगृहीत (√ग्रह् + क्त, ३.१)
कथंकथम् (अव्ययः)
नुनु (अव्ययः)
नामनाम (अव्ययः)
शक्यंशक्य (१.१)
मयामद् (३.१)
संप्रतिसम्प्रति (अव्ययः)
कर्तुम्कर्तुम् (√कृ + तुमुन्)
अद्यअद्य (अव्ययः)
तथातथा (अव्ययः)
करिष्यामिकरिष्यामि (√कृ लृट् उ.पु. )
यथायथा (अव्ययः)
हरीणांहर (६.३)
भविष्यतीष्टंभविष्यति (√भू लृट् प्र.पु. एक.)–इष्ट (√इष् + क्त, १.१)
(अव्ययः)
हितंहित (१.१)
(अव्ययः)
कार्यम्कार्य (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
वंगृ ही ते थंनु ना
क्यं या संप्रतिर्तुद्य
था रि ष्यामि था री णां
विष्य ती ष्टंहि तं का र्यम्