६.५७.६५

ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः ।
ददाह हरिसैन्यानि वनानीव विभावसुः ॥

पदच्छेदः

ज्वलन्तंज्वलत् (√ज्वल् + शतृ, २.१)
प्रासम्प्रास (२.१)
उद्यम्यउद्यम्य (√उत्-यम् + ल्यप्)
संग्रामान्तेसंग्राम–अन्त (७.१)
नरान्तकःनरान्तक (१.१)
ददाहददाह (√दह् लिट् प्र.पु. एक.)
हरिसैन्यानिहरि–सैन्य (२.३)
वनानीववन (२.३)–इव (अव्ययः)
विभावसुःविभावसु (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्व न्तं प्रा मु द्यम्य
सं ग्रा मा न्ते रान्त कः
दारि सै न्यानि
ना नीवि भा सुः