६.५७.९०

अथाङ्गदो राममनः प्रहर्षणं; सुदुष्करं तं कृतवान्हि विक्रमम् ।
विसिष्मिये सोऽप्यतिवीर्य विक्रमः; पुनश्च युद्धे स बभूव हर्षितः ॥

M N Dutt

Angada having performed that difficult deed of prowess, capable of delighting the mind of Rāma, was seized with amazement;* and that one of terrific feats in fight was again inspired with delight in the encounter. * Probably, at his own prowess.

पदच्छेदः

अथाङ्गदोअथ (अव्ययः)–अङ्गद (१.१)
राममनःप्रहर्षणंराम–मनस्–प्रहर्षण (२.१)
सुदुष्करंसु (अव्ययः)–दुष्कर (२.१)
तंतद् (२.१)
कृतवान्कृतवत् (√कृ + क्तवतु, १.१)
हिहि (अव्ययः)
विक्रमम्विक्रम (२.१)
विसिष्मियेविसिष्मिये (√वि-स्मि लिट् प्र.पु. एक.)
सोतद् (१.१)
ऽप्यतिवीर्यविक्रमःअपि (अव्ययः)–अतिवीर्य–विक्रम (१.१)
पुनश्चपुनर् (अव्ययः)–च (अव्ययः)
युद्धेयुद्ध (७.१)
तद् (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
हर्षितःहर्षित (√हर्षय् + क्त, १.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
थाङ्ग दो रा नःप्रर्ष णं
सु दुष्क रं तंकृ वान्हि विक्र मम्
वि सिष्मि ये सोऽप्यति वीर्य विक्र मः
पुश्च यु द्धे भूर्षि तः