६.५८.१९

ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुंगवैः ।
हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः ॥

अन्वयः

ततः then, हनूमान् Hanuman, नीलश्चापि as well as Neela, त्रिभिः three, नैरृतपुङ्गवैः Rakshasa leaders, अङ्गदम् Angada, परिक्षिप्तम् surrounding, विज्ञाय knowing, अथ again, प्रतस्थतुः set out.

M N Dutt

Seeing Angada assailed by the three redoubtable Rakşasas, Hanumān and Nila proceeded (to his rescue).

Summary

Then finding Angada surrounded by the three Rakshasa leaders, Hanuman as well as Neela set out.

पदच्छेदः

ततोततस् (अव्ययः)
ऽङ्गदंअङ्गद (२.१)
परिक्षिप्तंपरिक्षिप्त (√परि-क्षिप् + क्त, २.१)
त्रिभिर्त्रि (३.३)
नैरृतपुंगवैःनैरृत–पुंगव (३.३)
हनूमान्हनुमन्त् (१.१)
अपिअपि (अव्ययः)
विज्ञायविज्ञाय (√वि-ज्ञा + ल्यप्)
नीलश्चापिनील (१.१)–च (अव्ययः)–अपि (अव्ययः)
प्रतस्थतुःप्रतस्थतुः (√प्र-स्था लिट् प्र.पु. द्वि.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽङ्ग दं रि क्षि प्तं
त्रि भि र्नैरृ पुं वैः
नू मापि वि ज्ञा
नी श्चा पिप्रस्थ तुः