६.५८.२९

पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ।
हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ॥

अन्वयः

त्रिशिराः Trisira, पितृव्यम् uncle, निहतम् killed, दृष्टवा seeing, सङ्कृद्धः very angry, चापम् bow, आददे seized, हनूमन्तम् Hanuman, निशितैः sharp, शरैः arrow, विव्याथ pierced.

M N Dutt

Seeing his uncle slain, Triſiras took up his bow; and inflamed with fury pierced Hanumān with whetted arrows.

Summary

Trisira got enraged seeing his uncle killed, seized his bow and with a sharp arrow pierced Hanuman.

पदच्छेदः

पितृव्यंपितृव्य (२.१)
निहतंनिहत (√नि-हन् + क्त, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
त्रिशिराश्चापम्त्रिशिरस् (१.१)–चाप (२.१)
आददेआददे (√आ-दा लिट् प्र.पु. एक.)
हनूमन्तंहनुमन्त् (२.१)
(अव्ययः)
संक्रुद्धोसंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
विव्याधविव्याध (√व्यध् लिट् प्र.पु. एक.)
निशितैःनिशित (√नि-शा + क्त, ३.३)
शरैःशर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि तृ व्यंनि तं दृ ष्ट्वा
त्रिशि रा श्चा मा दे
नू न्तं सं क्रु द्धो
वि व्यानिशि तैः रैः