६.५८.४४

चुकोप परमामर्षी महापार्श्वो महाबलः ।
जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् ॥

पदच्छेदः

चुकोपचुकोप (√कुप् लिट् प्र.पु. एक.)
परमामर्षीपरम–अमर्षिन् (१.१)
महापार्श्वोमहापार्श्व (१.१)
महाबलःमहत्–बल (१.१)
जग्राहार्चिष्मतींजग्राह (√ग्रह् लिट् प्र.पु. एक.)–अर्चिष्मत् (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
गदांगदा (२.१)
सर्वायसींसर्व–आयस (२.१)
शुभाम्शुभ (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चु को मा र्षी
हा पा र्श्वो हा लः
ग्रा हा र्चिष्म तीं चापि
दां र्वा सींशु भाम्