६.५८.८

स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः ।
तान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः ॥

अन्वयः

ततः then, सः he, कपिकुञ्जरः leader of monkeys, वृक्षान् trees, शैलाश्च rocks also, ववर्षसङ्कृद्धः rained in anger, त्रिशिराः Trisira, निशितैः sharp, शरैः arrows, तान् himself, प्रचिच्छेद split.

Summary

Then the leader of the monkeys, rained trees and rocks. Angry Trisira attacked all of them with sharp arrows.

पदच्छेदः

तद् (१.१)
ववर्षववर्ष (√वृष् लिट् प्र.पु. एक.)
ततोततस् (अव्ययः)
वृक्षाञ्वृक्ष (२.३)
शिलाश्चशिला (२.३)–च (अव्ययः)
कपिकुञ्जरःकपि–कुञ्जर (१.१)
तान्तद् (२.३)
प्रचिछेदप्रचिछेद (√प्र-छिद् लिट् प्र.पु. एक.)
संक्रुद्धस्त्रिशिरासंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)–त्रिशिरस् (१.१)
निशितैःनिशित (√नि-शा + क्त, ३.३)
शरैःशर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्ष तो वृ क्षा
ञ्शि लाश्चपि कुञ्ज रः
तान्प्र चि च्छे सं क्रुद्ध
स्त्रिशि रानिशि तैः रैः