६.५९.१

स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् ।
भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥

पदच्छेदः

स्वबलंस्व–बल (२.१)
व्यथितंव्यथित (√व्यथ् + क्त, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तुमुलंतुमुल (२.१)
लोमहर्षणम्लोमन्–हर्षण (२.१)
भ्रातॄंश्चभ्रातृ (२.३)–च (अव्ययः)
निहतान्निहत (√नि-हन् + क्त, २.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
शक्रतुल्यपराक्रमान्शक्र–तुल्य–पराक्रम (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्व लंव्यथि तं दृ ष्ट्वा
तुमु लं लोर्ष णम्
भ्रा तॄंश्चनि ता न्दृ ष्ट्वा
क्र तुल्य राक्र मान्