६.५९.२

पितृव्यौ चापि संदृश्य समरे संनिषूदितौ ।
महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ ॥

पदच्छेदः

पितृव्यौपितृव्य (२.२)
चापि (अव्ययः)–अपि (अव्ययः)
संदृश्यसंदृश्य (√सम्-दृश् + ल्यप्)
समरेसमर (७.१)
संनिषूदितौसंनिषूदित (√संनि-सूदय् + क्त, २.२)
महोदरमहापार्श्वौमहोदर–महापार्श्व (२.२)
भ्रातरौभ्रातृ (२.२)
राक्षसर्षभौराक्षस–ऋषभ (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि तृ व्यौ चापि सं दृश्य
रे संनि षूदि तौ
हो हा पा र्श्वौ
भ्रा रौ राक्षर्ष भौ