६.५९.६८

ताञ्शरान्संप्रचिक्षेप लक्ष्मणाय निशाचरः ।
तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः ॥

अन्वयः

निशाचरः night ranger, तान् शरान् those arrows, लक्ष्मणाय at Lakshmana, सम्प्रचिक्षेप loosed with force, भरतानुजः Bharata's brother, तान् them, अप्राप्तान् before reaching, शरैः arrows, तीक्ष्णैः sharp, चिच्छेद shattered.

Summary

The night ranger set loose those arrows at Lakshmana, Bharata's brother. Lakshmana shattered them even before it reached him.

पदच्छेदः

ताञ्तद् (२.३)
शरान्शर (२.३)
सम्प्रचिक्षेपसम्प्रचिक्षेप (√सम्प्र-क्षिप् लिट् प्र.पु. एक.)
लक्ष्मणायलक्ष्मण (४.१)
निशाचरःनिशाचर (१.१)
तान्तद् (२.३)
अप्राप्ताञ्अप्राप्त (२.३)
शरैस्तीक्ष्णैश्चिछेदशर (३.३)–तीक्ष्ण (३.३)–चिछेद (√छिद् लिट् प्र.पु. एक.)
भरतानुजःभरत–अनुज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ताञ्श रा न्संप्र चि क्षे
क्ष्म णानि शा रः
ता प्रा प्ताञ्श रै स्ती क्ष्णै
श्चि च्छे तानु जः