६.५९.८०

स संधाय महातेजास्तं बाणं सहसोत्सृजत् ।
ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥

अन्वयः

महातेजाः very energetic, सः he, तम् his, बाणम् arrow, सन्धाय fixing, सहसा forcibly, उत्सृजत् released, तेन by that, आयान्तम् , सौमित्रिम् Saumithri's, स्तनान्तरे between is breast, आजघान pierced.

M N Dutt

Then aiming that arrow, that highly powerful one suddenly shot it; and with that, rushing on, hit Sumitra's son in the chest.

Summary

Highly energetic Atikaya, fixing another arrow released it between the breasts of Saumithri and pierced.

पदच्छेदः

तद् (१.१)
संधायसंधाय (√सम्-धा + ल्यप्)
महातेजास्तंमहत्–तेजस् (१.१)–तद् (२.१)
बाणंबाण (२.१)
सहसोत्सृजत्सहस् (३.१)–उत्सृजत् (√उत्-सृज् लङ् प्र.पु. एक.)
ततःततस् (अव्ययः)
सौमित्रिम्सौमित्रि (२.१)
आयान्तम्आयान्त् (√आ-या + शतृ, २.१)
आजघानआजघान (√आ-हन् लिट् प्र.पु. एक.)
स्तनान्तरेस्तनान्तर (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं धा हा ते जा
स्तं बा णं सोत्सृ जत्
तः सौ मित्रि मा यान्त
मा घास्त नान्त रे