६.६०.११

गजस्कन्धगताः केचित्केचित्परमवाजिभिः ।
प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः ॥

पदच्छेदः

गजस्कन्धगताःगज–स्कन्ध–गत (√गम् + क्त, १.३)
केचित्कश्चित् (१.३)
केचित्कश्चित् (१.३)
परमवाजिभिःपरम–वाजिन् (३.३)
प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराःप्रास–मुद्गर–निस्त्रिंश–परश्वध–गदा–धर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्कन्ध ताः केचि
त्के चित्प वाजि भिः
प्रा मुद्ग नि स्त्रिं
श्व दा राः