६.६०.१८

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः ।
रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम् ॥

पदच्छेदः

तथोक्तोतथा (अव्ययः)–उक्त (√वच् + क्त, १.१)
राक्षसेन्द्रेणराक्षस–इन्द्र (३.१)
प्रतिगृह्यप्रतिगृह्य (√प्रति-ग्रह् + ल्यप्)
महाशिषःमहत्–आशिस् (२.३)
रथेनाश्वयुजारथ (३.१)–अश्व–युज् (३.१)
वीरःवीर (१.१)
शीघ्रंशीघ्रम् (अव्ययः)
गत्वागत्वा (√गम् + क्त्वा)
निकुम्भिलाम्निकुम्भिल (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थो क्तो राक्ष से न्द्रे
प्रति गृह्य हाशि षः
थे नाश्वयु जा वी रः
शी घ्रं त्वानि कुम्भि लाम्