६.६०.४५

मन्ये स्वयम्भूर्भगवानचिन्त्यो; यस्यैतदस्त्रं प्रभवश्च योऽस्य ।
बाणावपातांस्त्वमिहाद्य धीम;न्मया सहाव्यग्रमनाः सहस्व ॥

अन्वयः

एतत् this, अस्त्रम् weapon, यस्य his, यः that which, अस्य whose, प्रभवः glorious, भगवान् god, स्वयम्भुः creator, अच्नित्यः inconceivable, मन्ये remain calm, धीमन् wise, त्वम् you, इह here, अद्य now, अव्यग्रमनाः undisturbed, बाणावपातम् hail of arrows, मयासह with me, सहस्व tolerate.

M N Dutt

The reverend self-sprung, I deem, is incomprehensible. And this is his weapon, embodying his energy. Therefore, O intelligent one, do you today along with me calmly bear this.

Summary

"This weapon of him (Indrajith) is that of the glorious creator and is presided by Him. By that reason he is inconceivable. O! Wise Lakshmana, remain calm and undisturbed at this hail of arrows."

पदच्छेदः

मन्येमन्ये (√मन् लट् उ.पु. )
स्वयम्भूर्स्वयम्भु (१.१)
भगवान्भगवत् (१.१)
अचिन्त्योअचिन्त्य (१.१)
यस्यैतद्यद् (६.१)–एतद् (१.१)
अस्त्रंअस्त्र (१.१)
प्रभवश्चप्रभव (१.१)–च (अव्ययः)
योयद् (१.१)
ऽस्यइदम् (६.१)
बाणावपातांस्त्वम्बाण–अवपात (२.३)–त्वद् (१.१)
इहाद्यइह (अव्ययः)–अद्य (अव्ययः)
धीमन्धीमत् (८.१)
मयामद् (३.१)
सहाव्यग्रमनाःसह (अव्ययः)–अव्यग्र–मनस् (१.१)
सहस्वसहस्व (√सह् लोट् म.पु. )

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
न्येस्व म्भूर्भ वा चि न्त्यो
स्यै स्त्रंप्रश्च योऽस्य
बा णा पा तांस्त्वमि हाद्य धी
न्म या हा व्यग्र नाःस्व