६.६०.४८

ततस्तु ताविन्द्रजिदस्त्रजालै;र्बभूवतुस्तत्र तदा विशस्तौ ।
स चापि तौ तत्र विषादयित्वा; ननाद हर्षाद्युधि राक्षसेन्द्रः ॥

अन्वयः

ततः then, तौ the two, इन्द्रजितः Indrajith, अस्त्रजालैः net of arrows, तत्रthere, तथा that way, विशस्तौ fallen down, बभूवतुः severed, सः he, राक्षसेन्द्रश्चापि even the Rakshasa king, तत्र there, तौ the two, विदर्शयित्वा seeing them, युधि battle, हर्षात् happy, ननाद roared.

M N Dutt

Assailed by Indrajit with networks of arrows, they were then sore distressed in the field. And having struck them with sadness, Indrajit from joy shouted in the encounter.

Summary

Seeing the two princes severed and fallen down struck by the net of arrows of Indrajith, he roared happily in the battle.

पदच्छेदः

ततस्तुततस् (अव्ययः)–तु (अव्ययः)
ताविन्द्रजिदस्त्रजालैर्तद् (१.२)–इन्द्रजित्–अस्त्र–जाल (३.३)
बभूवतुस्तत्रबभूवतुः (√भू लिट् प्र.पु. द्वि.)–तत्र (अव्ययः)
तदातदा (अव्ययः)
विशस्तौविशस्त (√वि-शंस् + क्त, १.२)
तद् (१.१)
चापि (अव्ययः)–अपि (अव्ययः)
तौतद् (२.२)
तत्रतत्र (अव्ययः)
विषादयित्वाविषादयित्वा (√वि-सादय् + ल्यप्)
ननादननाद (√नद् लिट् प्र.पु. एक.)
हर्षाद्हर्ष (५.१)
युधियुध् (७.१)
राक्षसेन्द्रःराक्षस–इन्द्र (१.१)

छन्दः

उपेन्द्रवज्रा [११: जतजगग]

छन्दोविश्लेषणम्

१०११
स्तु ता विन्द्रजिस्त्र जा लै
र्ब भू तु स्तत्र दावि स्तौ
चापि तौत्रवि षा यि त्वा
ना र्षाद्युधि राक्ष से न्द्रः