६.६१.१३

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।
मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः ॥

अन्वयः

सविभीषणः Vibheeshana, हनूमान् Hanuman, सागरौघनिभम् ? resembling ocean, बाणार्दितम् glowing arrows, बलम् army, दृष्टवा seeing, जाम्बवन्तम् Jambavantha, मार्गते looked for.

M N Dutt

And surveying that host worsted, dreadful like the surges of the sea, Hanumăn and Vibhīşaņa began to search for Jāmbavān.

Summary

Vibheeshana and Hanuman seeing the ocean of Vanara army and the glowing arrows on them, looked for Jambavantha.

पदच्छेदः

सागरौघनिभंसागर–ओघ–निभ (२.१)
भीमंभीम (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
बाणार्दितंबाण–अर्दित (√अर्दय् + क्त, २.१)
बलम्बल (२.१)
मार्गतेमार्गते (√मार्ग् लट् प्र.पु. एक.)
जाम्बवन्तंजाम्बवन्त् (२.१)
स्मस्म (अव्ययः)
हनूमान्हनुमन्त् (१.१)
सविभीषणः (अव्ययः)–विभीषण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा रौनि भं भी मं
दृ ष्ट्वा बा णार्दि तं लम्
मार्ग ते जाम्ब न्तंस्म
नू मान्सवि भी णः