६.६१.२

ततो विषण्णं समवेक्ष्य सैन्यं; विभीषणो बुद्धिमतां वरिष्ठः ।
उवाच शाखामृगराजवीरा;नाश्वासयन्नप्रतिमैर्वचोभिः ॥

अन्वयः

ततः thereafter, बुद्धिमताम् wise, वरिष्ठः foremost, विभीषणः Vibheeshana, विषण्णम् despondent, सैन्यम् army, समवेक्ष्य observing, अप्रतिमैः incomparable, वचोभिः words, शाखामृगराजवीरान् the monkey leaders, आश्वासयन् reassuring, उवाच spoke.

M N Dutt

Thereupon, seeing them dispirited, that foremost of intelligent persons, Vibhisana, cheering them up with his peerless speech, said.

Summary

Thereafter, foremost among the wise, Vibheeshana observing the despondency of the monkey leaders spoke to them reassuring in incomparable words.

पदच्छेदः

ततोततस् (अव्ययः)
विषण्णंविषण्ण (√वि-सद् + क्त, २.१)
समवेक्ष्यसमवेक्ष्य (√समव-ईक्ष् + ल्यप्)
सैन्यंसैन्य (२.१)
विभीषणोविभीषण (१.१)
बुद्धिमतांबुद्धिमत् (६.३)
वरिष्ठःवरिष्ठ (१.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
शाखामृगराजवीरान्शाखामृग–राजन्–वीर (२.३)
आश्वासयन्न्आश्वासयत् (√आ-श्वासय् + शतृ, १.१)
अप्रतिमैर्अप्रतिम (३.३)
वचोभिःवचस् (३.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
तोवि ण्णं वेक्ष्य सै न्यं
वि भी णो बुद्धि तां रि ष्ठः
वा शा खामृ रा वी रा
ना श्वा न्नप्रति मैर्व चो भिः