६.६१.४३

तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ।
लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥

अन्वयः

नानाद्यमानस्य by the roaring, तस्य its, उत्तमम् loud, निनदम् sound, श्रुत्वा hearing, लङ्कास्थाः Lanka's, राक्षसाः Rakshasa, सर्वे all, भयात् in fear, स्पन्दितुम् stir, न शेकुः not possible.

M N Dutt

Hearing those tremendous roars as he kept emitting cries, the powerful Rākṣasas were quite stupified.

Summary

All the Rakshasas in Lanka hearing the loud roar of Hanuman were afraid and could not stir from there.

पदच्छेदः

तस्यतद् (६.१)
नानद्यमानस्यनानद्यमान (६.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
निनदम्निनद (२.१)
अद्भुतम्अद्भुत (२.१)
लङ्कास्थालङ्का–स्थ (१.३)
राक्षसाःराक्षस (१.३)
सर्वेसर्व (१.३)
(अव्ययः)
शेकुःशेकुः (√शक् लिट् प्र.पु. बहु.)
स्पन्दितुंस्पन्दितुम् (√स्पन्द् + तुमुन्)
भयात्भय (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य नाद्य मास्य
श्रु त्वानिद्भु तम्
ङ्का स्था राक्ष साः र्वे
शे कुः स्पन्दि तुं यात्