६.६१.६६

ततो महात्मा निपपात तस्मि;ञ्शैलोत्तमे वानरसैन्यमध्ये ।
हर्युत्तमेभ्यः शिरसाभिवाद्य; विभीषणं तत्र च सस्वजे सः ॥

अन्वयः

ततः then, महात्मा great, तस्मिन् with that, शैलोत्तमे foremost mountain, वानरसैन्यमध्ये in the midst of Vanara army, निपपात descended, सः he, हर्युत्तमेभ्यः best of Vanaras, शिरसा head bent down, अभिवाद्य greeting, तत्र there, विभीषणम् ? Vibheeshana, सस्वजे च embraced.

M N Dutt

Then the high-souled one dropped on that best of mountains in the midst of the monkey-forces; and, bowing down to the principal monkeys there, he embraced Vibhisana.

Summary

The great Hanuman along with the mountain descended in the midst of the Vanara army, and greeted the army head bent down and embraced Vibheeshana standing there.

पदच्छेदः

ततोततस् (अव्ययः)
महात्मामहात्मन् (१.१)
निपपातनिपपात (√नि-पत् लिट् प्र.पु. एक.)
तस्मिञ्तद् (७.१)
शैलोत्तमेशैल–उत्तम (७.१)
वानरसैन्यमध्येवानर–सैन्य–मध्य (७.१)
हर्युत्तमेभ्यःहरि–उत्तम (५.३)
शिरसाभिवाद्यशिरस् (३.१)–अभिवाद्य (√अभि-वादय् + ल्यप्)
विभीषणंविभीषण (२.१)
तत्रतत्र (अव्ययः)
(अव्ययः)
सस्वजेसस्वजे (√स्वज् लिट् प्र.पु. एक.)
सःतद् (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
तो हा त्मानि पास्मि
ञ्शै लोत्त मे वा सैन्य ध्ये
र्युत्त मे भ्यःशि साभि वाद्य
वि भी णंत्रस्व जे सः