६.६२.२३

नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ।
स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥

अन्वयः

धूमेन smoke, व्याप्तस्य spread, ज्वलनतप्तस्य scorched by fire, उच्चैः at the top of, विनेदुषः clamour, नारीजनस्य of the women folk, स्वनः sound, शतयोजनम् a hundred yojanas, शुश्रुवे heard.

M N Dutt

The cries of the females amidst the drift of smoke, heated by the flames, could be heard from an hundred Yojanas.

Summary

By the smoke that spread, scorched by the fire, the clamour of the women folk at the top of their voice was heard at a hundred yojanas.

पदच्छेदः

नारीजनस्यनारी–जन (६.१)
धूमेनधूम (३.१)
व्याप्तस्योच्चैर्व्याप्त (√वि-आप् + क्त, ६.१)–उच्चैस् (अव्ययः)
विनेदुषःविनेदिवस् (√वि-नद् + क्वसु, ६.१)
स्वनोस्वन (१.१)
ज्वलनतप्तस्यज्वलन–तप्त (√तप् + क्त, ६.१)
शुश्रुवेशुश्रुवे (√श्रु लिट् प्र.पु. एक.)
दशयोजनम्दशन्–योजन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना रीस्य धू मे
व्या प्त स्यो च्चैर्वि नेदु षः
स्व नोज्व प्तस्य
शुश्रु वे यो नम्