६.६२.३५

तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ।
स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् ॥

अन्वयः

दीप्तोल्कोज्ज्वलपाणिषु holding burning torches in hand, तेषु they, वानरमुख्येषु Vanara chiefs, द्वारम् gate, आसाद्य reaching, स्थितेषु standing, रावणम् Ravana, मन्युराविशत् overtaken by anger.

M N Dutt

As the principal monkeys stationed themselves at the gate, equipped with fire-brands, wrath took possession of Rävana.

Summary

Holding burning torches in hand the Vanara chiefs reached and standing at the gate, saw that Ravana was overtaken by anger.

पदच्छेदः

तेषुतद् (७.३)
वानरमुख्येषुवानर–मुख्य (७.३)
दीप्तोल्कोज्ज्वलपाणिषुदीप्त (√दीप् + क्त)–उल्का–उज्ज्वल–पाणि (७.३)
स्थितेषुस्थित (√स्था + क्त, ७.३)
द्वारम्द्वार (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
रावणंरावण (२.१)
मन्युर्मन्यु (१.१)
आविशत्आविशत् (√आ-विश् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तेषु वा मु ख्येषु
दी प्तो ल्कोज्ज्व पाणिषु
स्थि ते षु द्वा मा साद्य
रा णंन्यु रावि शत्