६.६२.४७

तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ।
प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः ॥

अन्वयः

तथैव in the same way, घोररूपाः of terrific appearance, अपरे more, निशाचराः night rangers, शितैः sharp, असिभिः with swords, तेषाम् those, कपिनाम् Vanaras, प्रवीरान् great heroes, अभितः in front, जघ्नुः struck.

M N Dutt

In the same way other grim-visaged nightrangers slew with sharpened swords the foremost of monkeys on all sides.

Summary

In the aforesaid manner the Vanaras struck more night rangers of terrific appearance, great heroes in front of them with sharp swords.

पदच्छेदः

तथैवाप्यपरेतथा (अव्ययः)–एव (अव्ययः)–अपि (अव्ययः)–अपर (१.३)
तेषांतद् (६.३)
कपीनाम्कपि (६.३)
असिभिःअसि (३.३)
शितैःशित (√शा + क्त, ३.३)
प्रवीरान्प्रवीर (२.३)
अभितोअभितस् (अव्ययः)
जघ्नुर्जघ्नुः (√हन् लिट् प्र.पु. बहु.)
घोररूपाघोर–रूप (१.३)
निशाचराःनिशाचर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थै वाप्य रे ते षां
पी नासि भिःशि तैः
प्र वी राभि तोघ्नु
र्घो रू पानि शा राः