६.६३.१४

तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः ।
त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः ॥

अन्वयः

कुम्भः Kumbha, आपतन्तम् coming towards, तम् him, पञ्चभिः five, आयसैः steel arrows, शितैः hundred, अन्यैः other, त्रिभिःबाणैः threeshafts, तोमरैः lances, मातङ्गमिव like elephant, विव्याध pierced.

Summary

Kumbha seeing Angada advancing towards him, with five steel arrows and three shafts pierced him just as an elephant is pierced with lances.

पदच्छेदः

तम्तद् (२.१)
आपतन्तंआपतत् (√आ-पत् + शतृ, २.१)
विव्याधविव्याध (√व्यध् लिट् प्र.पु. एक.)
कुम्भःकुम्भ (१.१)
पञ्चभिर्पञ्चन् (३.३)
आयसैःआयस (३.३)
त्रिभिश्चान्यैःत्रि (३.३)–च (अव्ययः)–अन्य (३.३)
शितैर्शित (√शा + क्त, ३.३)
बाणैर्बाण (३.३)
मातंगम्मातंग (२.१)
इवइव (अव्ययः)
तोमरैःतोमर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा न्तं वि व्या
कु म्भःञ्चभि रा सैः
त्रि भि श्चा न्यैःशि तै र्बा णै
र्मा तंमि तो रैः