६.६३.२१

स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः ।
अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च ॥

अन्वयः

सः he, कायभेदनैः tearing the body, शितैः sharp, सप्तभिः seven, बाणैः arrows, चिच्छेद shattered, सः , अङ्गदः that Angada, अभीक्ष्णम् immediately, विव्यथे pained, ससादच screaming, मुमोह च lost senses.

M N Dutt

Thereat he* severed it with seven sharp shafts capable of piercing the body. And Angada experienced a sharp pang and fell down deprived of his senses. *Kumbha.

Summary

Kumbha shattered Angada with seven sharp arrows capable of tearing the body. Angada, pained by that screamed and lost his senses.

पदच्छेदः

तद् (१.१)
चिछेदचिछेद (√छिद् लिट् प्र.पु. एक.)
शितैर्शित (√शा + क्त, ३.३)
बाणैःबाण (३.३)
सप्तभिःसप्तन् (३.३)
कायभेदनैःकाय–भेदन (३.३)
अङ्गदोअङ्गद (१.१)
विव्यथेविव्यथे (√व्यथ् लिट् प्र.पु. एक.)
ऽभीक्ष्णंअभीक्ष्णम् (अव्ययः)
ससादससाद (√सद् लिट् प्र.पु. एक.)
(अव्ययः)
मुमोहमुमोह (√मुह् लिट् प्र.पु. एक.)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चि च्छेशि तै र्बा णैः
प्त भिः का भे नैः
ङ्ग दो विव्य थे ऽभी क्ष्णं
सामु मो