६.६३.३५

निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ।
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् ॥

अन्वयः

निर्भिद्यमानः snatching, सः he, तान् them, शरान् arrows, सहमानः tolerating the pain, कुम्भस्य Kumbha's, इन्द्रधनुष्प्रभम् like Indra's rainbow, धनुः bow, सहसा forcibly, आक्षिप्य pulling, बभञ्च broke.

Summary

He snatched the bow of Kumbha forcibly which was like Indra's rainbow, pulled it and broke, while tolerating the pain of the arrows.

पदच्छेदः

निर्भिद्यमानःनिर्भिद्यमान (√निः-भिद् + शानच्, १.१)
सहसासहस् (३.१)
सहमानश्चसहमान (√सह् + शानच्, १.१)–च (अव्ययः)
ताञ्तद् (२.३)
शरान्शर (२.३)
कुम्भस्यकुम्भ (६.१)
धनुर्धनुस् (२.१)
आक्षिप्यआक्षिप्य (√आ-क्षिप् + ल्यप्)
बभञ्जेन्द्रधनुःप्रभम्बभञ्ज (√भञ्ज् लिट् प्र.पु. एक.)–इन्द्रधनुस्–प्रभा (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नि र्भिद्य मा नः सा
माश्च ताञ्श रान्
कु म्भस्यनु रा क्षिप्य
ञ्जेन्द्र नुःप्र भम्