६.६३.५

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ।
मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥

अन्वयः

धन्विनाम् wielder of bow, श्रेष्ठः foremost, सः he, धनुः bow, प्रगृह्य taking, सुसमाहितः fully composed, आशीविषप्रख्यान् resembling poisonous serpents, देहविदारणान् capable of tearing the body, शरान् arrows, मुमोच released.

M N Dutt

And heedfully taking his bow, that first of bowmen discharged shafts resembling venomous serpents capable of piercing the body.

Summary

He (Kumbha), the foremost wielder of bow, taking up the bow, remaining fully composed released arrows that resembled poisonous serpents capable of tearing the flesh.

पदच्छेदः

तद् (१.१)
धनुर्धनुस् (२.१)
धन्विनांधन्विन् (६.३)
श्रेष्ठःश्रेष्ठ (१.१)
प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
सुसमाहितःसु (अव्ययः)–समाहित (१.१)
मुमोचाशीविषप्रख्याञ्मुमोच (√मुच् लिट् प्र.पु. एक.)–आशीविष–प्रख्या (२.३)
शरान्शर (२.३)
देहविदारणान्देह–विदारण (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नु र्धन्वि नां श्रे ष्ठः
प्र गृह्यसु माहि तः
मु मो चा शीवि प्र ख्या
ञ्श रा न्देवि दा णान्