६.६३.९

मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे ।
अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ॥

अन्वयः

मैन्दःतु Maindaaslo, तत्र there, महाहवे great comb at भग्नम् shattered, भ्रातरम् brother, दृष्टवा seeing, महतीम् huge, शिलाम् rock, प्रगृह्य taking, वेगेन swiftly, अभिदुद्राव rushed.

Summary

Seeing the brother shattered in the great combat, Mainda on his part seizing a huge rock rushed swiftly.

पदच्छेदः

मैन्दस्तुमैन्द (१.१)–तु (अव्ययः)
भ्रातरंभ्रातृ (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
भग्नंभग्न (√भञ्ज् + क्त, २.१)
तत्रतत्र (अव्ययः)
महाहवेमहत्–आहव (७.१)
अभिदुद्रावअभिदुद्राव (√अभि-द्रु लिट् प्र.पु. एक.)
वेगेनवेग (३.१)
प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
महतींमहत् (२.१)
शिलाम्शिला (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मै न्द स्तु भ्रा रं दृ ष्ट्वा
ग्नंत्र हा वे
भि दु द्रा वे गे
प्र गृह्य तींशि लाम्