६.६६.२८

ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः ।
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ।
भित्त्वा शरै रथं रामो रथाश्वान्समपातयत् ॥

अन्वयः

ततः then, संयुगे in the combat, क्रुद्धःenraged, महाबाहुः endowed with broad shoulders, राघवःRaghava, धनुः bow, चिच्छेद split, अथ and then, अष्टाभिः eight also, नाराचैःsteel arrows, सूतम् charioteer, विव्याध struck

M N Dutt

Thereupon being excited with ire, Rāghava of long arms sundered his (Raksasa's) bow in conflict and with eight Näräcas pierced the charioteer.

Summary

Then broad shouldered Raghava was enraged and split the bow with eight steel arrows and the charioteer also.

पदच्छेदः

ततःततस् (अव्ययः)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
महाबाहुर्महत्–बाहु (१.१)
धनुश्चिछेदधनुस् (२.१)–चिछेद (√छिद् लिट् प्र.पु. एक.)
रक्षसःरक्षस् (६.१)
अष्टाभिर्अष्टन् (३.३)
अथअथ (अव्ययः)
नाराचैःनाराच (३.३)
सूतंसूत (२.१)
विव्याधविव्याध (√व्यध् लिट् प्र.पु. एक.)
राघवःराघव (१.१)
भित्त्वाभित्त्वा (√भिद् + क्त्वा)
शरैशर (३.३)
रथंरथ (२.१)
रामोराम (१.१)
रथाश्वान्रथ–अश्व (२.३)
समपातयत्समपातयत् (√सम्-पातय् लङ् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तः क्रु द्धो हा बा हुर्ध नु श्चि च्छे
क्ष सः ष्टाभि ना रा चैः
सू तं वि व्या रा वः भि त्त्वा रै
थं रा मो था श्वान्स पा यत्