६.६६.३४

तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः ।
मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥

अन्वयः

निशाचरः night ranger, मकराक्षःMakaraksha, तम् his, शूलम् pike, निहतम् destroyed, दृष्टवा seeing, मुष्टिम् fist, उद्यम्य lifting up, तिष्ठतिष्ठ wait wait, इति this, काकुत्स्थम् to Kakuthsa, अब्रवीत् spoke

M N Dutt

Beholding his dart thus sundered, the nightranger Makarākșa clenching his fist spoke to Kakutstha, saying, "Stay! Stay!"

Summary

The night ranger Makaraksha seeing his pike destroyed lifting up his fist said this to Kakuthsa, "Wait, wait."

पदच्छेदः

तद्तद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
निहतंनिहत (√नि-हन् + क्त, २.१)
शूलंशूल (२.१)
मकराक्षोमकराक्ष (१.१)
निशाचरःनिशाचर (१.१)
मुष्टिम्मुष्टि (२.१)
उद्यम्यउद्यम्य (√उत्-यम् + ल्यप्)
काकुत्स्थंकाकुत्स्थ (२.१)
तिष्ठतिष्ठ (√स्था लोट् म.पु. )
तिष्ठेतितिष्ठ (√स्था लोट् म.पु. )–इति (अव्ययः)
चाब्रवीत् (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्दृ ष्ट्वानि तं शू लं
रा क्षोनि शा रः
मुष्टि मु द्यम्य का कु त्स्थं
तिष्ठ ति ष्ठेति चाब्र वीत्