६.६६.३८

दशरथनृपपुत्रबाणवेगै; रजनिचरं निहतं खरात्मजं तम् ।
ददृशुरथ च देवताः प्रहृष्टा; गिरिमिव वज्रहतं यथा विशीर्णम् ॥

M N Dutt

Seeing that night-ranger, the son of Khara, slain by Rāma's arrows, like to a mountain clept by a thunder-bolt, the celestials were greatly delighted.

पदच्छेदः

दशरथनृपपुत्रबाणवेगैदशरथ–नृप–पुत्र–बाण–वेग (३.३)
रजनिचरंरजनिचर (२.१)
निहतंनिहत (√नि-हन् + क्त, २.१)
खरात्मजंखर–आत्मज (२.१)
तम्तद् (२.१)
ददृशुर्ददृशुः (√दृश् लिट् प्र.पु. बहु.)
अथअथ (अव्ययः)
(अव्ययः)
देवताःदेवता (१.३)
प्रहृष्टाप्रहृष्ट (√प्र-हृष् + क्त, १.३)
गिरिम्गिरि (२.१)
इवइव (अव्ययः)
वज्रहतंवज्र–हत (√हन् + क्त, २.१)
यथायथा (अव्ययः)
विशीर्णम्विशीर्ण (√वि-शृ + क्त, २.१)

छन्दः

पुष्पिताग्रा []

छन्दोविश्लेषणम्

१०१११२१३
नृ पुत्र बा वे गै
नि रंनि तं रात्म जं तम्
दृशु दे ताःप्र हृ ष्टा
गिरिमिज्र तं थावि शी र्णम्