६.६७.४२

इत्येवमुक्त्वा वचनं महात्मा; रघुप्रवीरः प्लवगर्षभैर्वृतः ।
वधाय रौद्रस्य नृशंसकर्मण;स्तदा महात्मा त्वरितं निरीक्षते ॥

M N Dutt

Having said these words pregnant with a high significance, the high-souled and heroic descendant of Raghu, being surrounded by monkeys, began to concert various plans for the destruction of that terrible Raksasa of wicked deeds.

पदच्छेदः

इत्येवम्इति (अव्ययः)–एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
वचनंवचन (२.१)
महात्मामहात्मन् (१.१)
रघुप्रवीरःरघु–प्रवीर (१.१)
प्लवगर्षभैर्प्लवग–ऋषभ (३.३)
वृतःवृत (√वृ + क्त, १.१)
वधायवध (४.१)
रौद्रस्यरौद्र (६.१)
नृशंसकर्मणस्नृशंस–कर्मन् (६.१)
तदातदा (अव्ययः)
महात्मामहात्मन् (१.१)
त्वरितंत्वरितम् (अव्ययः)
निरीक्षतेनिरीक्षते (√निः-ईक्ष् लट् प्र.पु. एक.)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
त्ये मु क्त्वा नं हा त्मा
घुप्र वी रःप्लर्ष भैर्वृ तः
धा रौ द्रस्यनृ शंर्म
स्त दा हा त्मात्वरि तंनि रीक्ष ते