६.६८.१

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः ।
संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः ॥

अन्वयः

सः he, महात्मनः highsouled, तस्यराघवस्य that Raghava's, मनः mind, विज्ञाय victory, तस्मात् therefore, आहवात् from there, निवृत्य departed, ततः there, पुरीम् city, प्रविवेश entered

M N Dutt

Having read the intention of that high-souled Raghava, he retired from the battle-field and entered into the city of Lankā.

Summary

Knowing the highsouled Raghava's mind, Indrajith departed from there and entered the city.

पदच्छेदः

विज्ञायविज्ञाय (√वि-ज्ञा + ल्यप्)
तुतु (अव्ययः)
मनस्तस्यमनस् (२.१)–तद् (६.१)
राघवस्यराघव (६.१)
महात्मनःमहात्मन् (६.१)
संनिवृत्याहवात्संनिवृत्य (√संनि-वृत् + ल्यप्)–आहव (५.१)
तस्मात्तद् (५.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
पुरंपुर (२.१)
ततःततस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि ज्ञातु स्तस्य
रास्य हात्म नः
संनि वृ त्या वा त्त स्मा
त्प्रवि वेपु रं तः