६.६८.२

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् ।
क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥

अन्वयः

शूरः hero, सःमहाद्युति: mighty Rakshasa, तरस्विनाम् courageous, तेषांराक्षसानाम्those Rakshasas, वधम् killed, अनुस्मृत्य recollecting, क्रोधताम्रेक्षणः eyes turned red in anger, निर्जगाम went

M N Dutt

And remembering the destruction of many a। quick-paced Raksasa, his eyes were rendered coppery with ire; and that hero, the son of Ravana, issued out of the city again.

Summary

Recollecting those Rakshasas killed, the heroic, mighty and courageous Indrajith's eyes were red in anger.

पदच्छेदः

सोतद् (१.१)
ऽनुस्मृत्यअनुस्मृत्य (√अनु-स्मृ + ल्यप्)
वधंवध (२.१)
तेषांतद् (६.३)
राक्षसानांराक्षस (६.३)
तरस्विनाम्तरस्विन् (६.३)
क्रोधताम्रेक्षणःक्रोध–ताम्र–ईक्षण (१.१)
शूरोशूर (१.१)
निर्जगामनिर्जगाम (√निः-गम् लिट् प्र.पु. एक.)
महाद्युतिःमहत्–द्युति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सो ऽनु स्मृत्य धं ते षां
राक्ष सा नांस्वि नाम्
क्रो ता म्रेक्ष णः शू रो
निर्ज गा हाद्यु तिः