६.६८.३३

तथा तु सीतां विनिहत्य दुर्मतिः; प्रहृष्टचेताः स बभूव रावणिः ।
तं हृष्टरूपं समुदीक्ष्य वानरा; विषण्णरूपाः समभिप्रदुद्रुवुः ॥

M N Dutt

And slaying Sītā that wicked-minded son of Rāvana became greatly pleased. And beholding him thus delighted the monkeys being greatly sorry fled away.

पदच्छेदः

तथातथा (अव्ययः)
तुतु (अव्ययः)
सीतांसीता (२.१)
विनिहत्यविनिहत्य (√विनि-हन् + ल्यप्)
दुर्मतिःदुर्मति (१.१)
प्रहृष्टचेताःप्रहृष्ट (√प्र-हृष् + क्त)–चेतस् (१.१)
तद् (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
रावणिःरावणि (१.१)
तंतद् (२.१)
हृष्टरूपंहृष्ट (√हृष् + क्त)–रूप (२.१)
समुदीक्ष्यसमुदीक्ष्य (√समुत्-ईक्ष् + ल्यप्)
वानरावानर (१.३)
विषण्णरूपाःविषण्ण (√वि-सद् + क्त)–रूप (१.३)
समभिप्रदुद्रुवुःसमभिप्रदुद्रुवुः (√समभिप्र-द्रु लिट् प्र.पु. बहु.)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
थातु सी तांविनित्य दुर्म तिः
प्र हृष्ट चे ताः भू रा णिः
तं हृष्ट रू पंमु दीक्ष्य वा रा
विण्ण रू पाः भिप्र दुद्रु वुः