६.६८.४

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥

अन्वयः

इन्द्रजित् तुIndrajith also, ततः there, वीरौheroes, भ्रातरौ brothers, रामलक्ष्मणौ Rama and Lakshmana, रणाय for war, अभ्युद्यतौ prepared, दृष्ट्या witnessing, तदा then, मायाम् by conjuring, प्रादुष्करोत्exhibited

M N Dutt

Then beholding the heroic brothers Rāma and Lakşmaņa prepared for fight, Indrajit spread illusions.

Summary

Indrajith, also witnessing the two brothers Rama and Lakshmana prepared for war, exhibited his trickery.

पदच्छेदः

इन्द्रजित्इन्द्रजित् (१.१)
तुतु (अव्ययः)
ततोततस् (अव्ययः)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
भ्रातरौभ्रातृ (२.२)
रामलक्ष्मणौराम–लक्ष्मण (२.२)
रणायाभ्युद्यतौरण (४.१)–अभ्युद्यत (√अभ्युद्-यम् + क्त, २.२)
वीरौवीर (२.२)
मायांमाया (२.१)
प्रादुष्करोत्प्रादुष्करोत् (√प्रादुस्-कृ लङ् प्र.पु. एक.)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्र जित्तु तो दृ ष्ट्वा
भ्रा रौ राक्ष्म णौ
णा या भ्युद्य तौ वी रौ
मा यां प्रा दुष्क रोत्त दा