६.६८.५

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा ।
बलेन महतावृत्य तस्या वधमरोचयत् ॥

अन्वयः

इन्द्रजित् तु Indrajith also, तदा then, मायामयीम् through a trick, सीताम् Sita, रथे chariot, स्थाप्य placed, महता great, बलेन army, आवृत्य surrounding, तस्याः her, वथम् to kill, अरोचयत् thought

M N Dutt

Placing an illusory figure of Sītā on the car, encircled by a huge army he began to make arrangements for her destruction.

Summary

Indrajith, also through a trick, wanted to make illusory Sita and place her in the chariot surrounded by Rakshasas and thought of killing her.

पदच्छेदः

इन्द्रजित्इन्द्रजित् (१.१)
तुतु (अव्ययः)
रथेरथ (७.१)
स्थाप्यस्थाप्य (√स्थापय् + क्त्वा)
सीतांसीता (२.१)
मायामयींमाया–मय (२.१)
तदातदा (अव्ययः)
बलेनबल (३.१)
महतावृत्यमहत् (३.१)–आवृत्य (√आ-वृ + ल्यप्)
तस्यातद् (६.१)
वधम्वध (२.१)
अरोचयत्अरोचयत् (√रोचय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्र जित्तु थे स्थाप्य
सी तां मा या यीं दा
ले ता वृत्य
स्या रो यत्