६.६८.७

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः ।
उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः ॥

अन्वयः

सर्वे all, ते of them, काननौकसः forest animals, अभिनिर्यान्तम् coming towards, तम् him, दृष्टवा observing, अभिसङ्क्रुद्धाः very angry, शिलाहस्ताः holding rocks in hand, युयुत्सवः enthusiastically, उत्पेतुः faced

M N Dutt

Beholding him thus proceed, the monkeys, inflamed with ire, desirous of fighting and with crags in their hands, moved on.

Summary

All the forest animals perceiving Indrajithadvancing became angry and with rocks in hand faced him with enthusiasm.

पदच्छेदः

तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
त्वभिनिर्यान्तंतु (अव्ययः)–अभिनिर्यान्त् (√अभिनिः-या + शतृ, २.१)
नगर्याःनगरी (५.१)
काननौकसःकाननौकस् (१.३)
उत्पेतुर्उत्पेतुः (√उत्-पत् लिट् प्र.पु. बहु.)
अभिसंक्रुद्धाःअभिसंक्रुद्ध (√अभिसम्-क्रुध् + क्त, १.३)
शिलाहस्ताशिला–हस्त (१.३)
युयुत्सवःयुयुत्सु (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं दृ ष्ट्वात्वभि नि र्या न्तं
र्याः का नौ सः
त्पेतुभि सं क्रु द्धाः
शि ला स्तायु युत्स वः