६.६९.१२

पतितायां शिलायां तु रक्षसां व्यथिता चमूः ।
तमभ्यधावञ्शतशो नदन्तः काननौकसः ॥

पदच्छेदः

पतितायांपतित (√पत् + क्त, ७.१)
शिलायांशिला (७.१)
तुतु (अव्ययः)
रक्षसांरक्षस् (६.३)
व्यथिताव्यथित (√व्यथ् + क्त, १.१)
चमूःचमू (१.१)
तम्तद् (२.१)
अभ्यधावञ्अभ्यधावन् (√अभि-धाव् लङ् प्र.पु. बहु.)
शतशोशतशस् (अव्ययः)
नदन्तःनदत् (√नद् + शतृ, १.३)
काननौकसःकाननौकस् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ति ता यांशि ला यांतु
क्ष सांव्यथि ता मूः
भ्य धाञ्श शो
न्तः का नौ सः