६.६९.१६

स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः ।
जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः ॥

अन्वयः

दृष्टविक्रमः unyielding valour, सः he, स्वसैन्येन by his own army, अभिसम्वृतः combined with, शरौघान् arrows, अवसृजन् let go, सुबहून् numerous, कपिशार्दूलान् tigers among monkeys, जघान struck

Summary

Indrajith of unyielding valour, combining with his own army let go numerous arrows on the tigers of Vanaras and struck them.

पदच्छेदः

तद् (१.१)
शरौघान्शर–ओघ (२.३)
अवसृजन्अवसृजत् (√अव-सृज् + शतृ, १.१)
स्वसैन्येनाभिसंवृतःस्व–सैन्य (३.१)–अभिसंवृत (√अभिसम्-वृ + क्त, १.१)
जघानजघान (√हन् लिट् प्र.पु. एक.)
कपिशार्दूलान्कपि–शार्दूल (२.३)
सुबहून्सु (अव्ययः)–बहु (२.३)
दृष्टविक्रमःदृष्ट (√दृश् + क्त)–विक्रम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रौ घासृ
न्स्व सै न्ये नाभि संवृ तः
घापि शा र्दू ला
न्सु हू न्दृष्ट विक्र मः