६.७.१२

मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम् ।
अवगाह्य त्वया राजन्यमस्य बलसागरम् ॥

पदच्छेदः

मृत्युदण्डमहाग्राहंमृत्यु–दण्ड–महत्–ग्राह (२.१)
शाल्मलिद्वीपमण्डितम्शाल्मलि–द्वीप–मण्डित (√मण्डय् + क्त, २.१)
अवगाह्यअवगाह्य (√अव-गाह् + ल्यप्)
त्वयात्वद् (३.१)
राजन्राजन् (८.१)
यमस्ययम (६.१)
बलसागरम्बल–सागर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मृत्युण्ड हा ग्रा हं
शाल्म लि द्वीण्डि तम्
गा ह्यत्व या रा
न्यस्य सा रम्