६.७.१३

जयश्च विप्लुलः प्राप्तो मृत्युश्च प्रतिषेधितः ।
सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः ॥

पदच्छेदः

जयश्चजय (१.१)–च (अव्ययः)
विपुलःविपुल (१.१)
प्राप्तोप्राप्त (√प्र-आप् + क्त, १.१)
मृत्युश्चमृत्यु (१.१)–च (अव्ययः)
प्रतिषेधितःप्रतिषेधित (√प्रति-सेधय् + क्त, १.१)
सुयुद्धेनसु (अव्ययः)–युद्ध (३.१)
(अव्ययः)
तेत्वद् (६.१)
सर्वेसर्व (१.३)
लोकास्तत्रलोक (१.३)–तत्र (अव्ययः)
सुतोषिताःसु (अव्ययः)–तोषित (√तोषय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्च विप्लु लः प्रा प्तो
मृ त्यु श्चप्रति षेधि तः
सु यु द्धे ते र्वे
लो का स्तत्रसु तोषि ताः