६.७०.१५

भूतानां स्थावराणां च जङ्गमानां च दर्शनम् ।
यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥

अन्वयः

स्थावराणाम् inanimate, जङ्गमानां च animate, भूतानाम् created beings, दर्शनम् seen (experiencing joy), यथा in the same way, अस्ति at present, तथा like that, न not, तेन by that, धर्मःrighteousness, नास्तीतिit is not, मे I, मतिःthink

M N Dutt

Beings and the mobile as well as the immobile cannot have that direct perception of virtue which they have of happiness. Therefore, I ween, virtue is a non-entity.

Summary

" As animate and inanimate beings are seen experiencing joy at present, righteousness is not the cause of joy, I think so."

पदच्छेदः

भूतानांभूत (६.३)
स्थावराणांस्थावर (६.३)
(अव्ययः)
जङ्गमानांजङ्गम (६.३)
(अव्ययः)
दर्शनम्दर्शन (१.१)
यथास्तियथा (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
(अव्ययः)
तथातथा (अव्ययः)
धर्मस्तेनधर्म (१.१)–तद् (३.१)
नास्तीति (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)–इति (अव्ययः)
मेमद् (६.१)
मतिःमति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भू ता नां स्था रा णां
ङ्ग मा नांर्श नम्
थास्ति थार्म
स्ते ना स्तीति मे तिः