६.७१.१९

तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः ।
पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥

अन्वयः

निशिताः whetted, तीक्ष्णाःpointed, पत्रिपत्राङ्गवाजिनःfixed with limbs of birds in the form of feathers, एते those, शराः arrows, असौम्याःcruel, पतत्रिणःइवः like birds, तस्य his, शोणितम् blood, पास्यन्ति drink

M N Dutt

These keen and sharpened shafts of his, attaining access of velocity through the feathers of birds, and themselves resembling fierce fowls, will drink his* blood. *Indrajit's.

Summary

"Those whetted and pointed arrows fixed with limbs of birds in the form of feathers will drink his (Indrajith's) blood like cruel birds."

पदच्छेदः

तस्यैतेतद् (६.१)–एतद् (१.३)
निशितास्तीक्ष्णाःनिशित (√नि-शा + क्त, १.३)–तीक्ष्ण (१.३)
पत्रिपत्राङ्गवाजिनःपत्त्रिन्–पत्त्र–अङ्ग–वाजिन् (१.३)
पतत्रिणपतत्रिन् (१.३)
इवासौम्याःइव (अव्ययः)–असौम्य (१.३)
शराःशर (१.३)
पास्यन्तिपास्यन्ति (√पा लृट् प्र.पु. बहु.)
शोणितम्शोणित (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यै तेनिशि ता स्ती क्ष्णाः
त्रि त्राङ्ग वाजि नः
त्रि वा सौ म्याः
राः पा स्यन्ति शोणि तम्