६.७१.२२

समाप्तकर्मा हि स राक्षसेन्द्रो; भवत्यदृश्यः समरे सुरासुरैः ।
युयुत्सता तेन समाप्तकर्मणा; भवेत्सुराणामपि संशयो महान् ॥

M N Dutt

If that foremost of Räkşasas can finish his rites, he shall be invisible to both celestials and Asuras; and, he fighting after finishing his sacrifice, the celestials themselves shall be placed in great jeopardy.

पदच्छेदः

समाप्तकर्मासमाप्त (√सम्-आप् + क्त)–कर्मन् (१.१)
हिहि (अव्ययः)
तद् (१.१)
राक्षसेन्द्रोराक्षस–इन्द्र (१.१)
भवत्यदृश्यःभवति (√भू लट् प्र.पु. एक.)–अदृश्य (१.१)
समरेसमर (७.१)
सुरासुरैःसुर–असुर (३.३)
युयुत्सतायुयुत्सत् (३.१)
तेनतद् (३.१)
समाप्तकर्मणासमाप्त (√सम्-आप् + क्त)–कर्मन् (३.१)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
सुराणाम्सुर (६.३)
अपिअपि (अव्ययः)
संशयोसंशय (१.१)
महान्महत् (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
माप्त र्माहि राक्ष से न्द्रो
त्य दृ श्यः रेसु रासु रैः
यु युत्स ता ते माप्तर्म णा
वेत्सु रा णापि सं यो हान्