६.७२.११

धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ।
शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः ॥

पदच्छेदः

धनुर्मण्डलनिर्मुक्तैर्धनुस्–मण्डल–निर्मुक्त (√निः-मुच् + क्त, ३.३)
आशीविषविषोपमैःआशीविष–विष–उपम (३.३)
शरैर्शर (३.३)
हन्तुंहन्तुम् (√हन् + तुमुन्)
महेष्वासोमहत्–इष्वास (१.१)
रावणिंरावणि (२.१)
समितिंजयःसमितिंजय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नु र्मण्ड नि र्मु क्तै
रा शीविवि षो मैः
रै र्ह न्तुं हे ष्वा सो
रा णिंमि तिं यः