६.७२.६

तान्यनीकानि सर्वाणि विभक्तानि समन्ततः ।
विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥

अन्वयः

तानि all of them, अनीकानि army forces, सर्वाणि all, समन्ततःcollected, विभक्तानि divided, यूथपाश्चैव where ever, यथान्यायम् in the respective places, विभागशः separately, विन्यस्ताः assigned

M N Dutt

The entire force has been divided around; and the leaders have also been placed properly.

Summary

All the army forces have been collected, divided, and assigned to respective places separately.

पदच्छेदः

तान्यनीकानितद् (१.३)–अनीक (१.३)
सर्वाणिसर्व (१.३)
विभक्तानिविभक्त (√वि-भज् + क्त, १.३)
समन्ततःसमन्ततः (अव्ययः)
विन्यस्ताविन्यस्त (√विनि-अस् + क्त, १.३)
यूथपाश्चैवयूथप (१.३)–च (अव्ययः)–एव (अव्ययः)
यथान्यायंयथान्यायम् (अव्ययः)
विभागशःविभागशः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तान्य नी कानि र्वाणि
वि क्तानिन्त तः
वि न्य स्ता यू पा श्चै
था न्या यंवि भा शः