६.७३.२६

इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।
वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥

अन्वयः

तेन therefore, इति this way, उक्तः spoke, सारथिः charioteer, रथे chariot, स्थितम् seated, परमदुर्धर्षम् highly difficult to encounter, इन्द्रजितम् Indrajith, वहन् to that place, मारुतिःMaruthi, यत्र there, ययौ went

M N Dutt

Thus accosted by him, the charioteer went where the Wind-god's offspring was, carrying the exceedingly invincible Indrajit seated on the car.

Summary

On hearing Indrajith who is highly difficult to encounter speaking in that way his charioteer drove Indrajith, to that place, where Maruthi was.

पदच्छेदः

इत्युक्तःइति (अव्ययः)–उक्त (√वच् + क्त, १.१)
सारथिस्तेनसारथि (१.१)–तद् (३.१)
ययौययौ (√या लिट् प्र.पु. एक.)
यत्रयत्र (अव्ययः)
तद् (१.१)
मारुतिःमारुति (१.१)
वहन्वहत् (√वह् + शतृ, १.१)
परमदुर्धर्षंपरम–दुर्धर्ष (२.१)
स्थितम्स्थित (√स्था + क्त, २.१)
इन्द्रजितंइन्द्रजित् (२.१)
रथेरथ (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्तः सा थि स्ते
यौत्र मारु तिः
न्प दु र्ध र्षं
स्थि मिन्द्रजि तं थे