६.७४.१

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः ।
धनुष्पाणिनमादाय त्वरमाणो जगाम सः ॥

अन्वयः

सः he, विभीषणःVibheeshana, सौमित्रिम् Saumithri, एवम् in that manner, उक्त्वा having spoken, जातहर्षः satisfied, धनुष्पाणिम् wielding bow, न him, आदाय taking, त्वरमाणःquickly, जगाम went

M N Dutt

Having spoken thus to Sumitra's son, Vibhișaņa experienced delight, and taking (Laksmana) bearing a bow in his hand, hurriedly went off.

Summary

Vibheeshana, having spoken that way, Saumithri was satisfied. Wielding a bow Saumithri went quickly with Vibheeshana.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
तुतु (अव्ययः)
सौमित्रिंसौमित्रि (२.१)
जातहर्षोजात (√जन् + क्त)–हर्ष (१.१)
विभीषणःविभीषण (१.१)
धनुष्पाणिनम्धनुष्पाणि (२.१)
आदायआदाय (√आ-दा + ल्यप्)
त्वरमाणोत्वरमाण (√त्वर् + शानच्, १.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
सःतद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्त्वातु सौ मि त्रिं
जा र्षोवि भी णः
नु ष्पाणि मा दा
त्व मा णो गा सः